Wednesday, 2 June 2010

भगवन्तौ वन्दे पुनःपनः

शङ्करम् शङ्कराचार्यम् केशवम् बादरायणम् ।
सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनःपनः ॥


मह्यम् एषः श्लोकः अतीव रोचते । आदिशङ्कराचार्यस्य व्यासस्य च विषये अस्ति एषा अद्भुता कृतिः । परन्तु श्लोक: पठने शिवविष्ण्वोः उपरि कृत्तम् इव भवति तयो: शङ्करेण व्यासेन च क्रमेण एकत्ववचनात् । नायम् दोषः, तयोः शङ्कर-शङ्कराचार्ययोः केशवव्यासयोः च एकत्वात् । अस्माकम् आचर्यस्य प्रथमशिष्यः पद्मपादाचर्यः अपि कथयति - "शङ्करः शङ्करः साक्षात् व्यासो नारायणः स्वयम् । तयोर्सम्वादम् सम्प्राप्ते किङ्करः किङ्करोम्यहम्॥ " इति, यदा व्यासः वृद्धरूपे आगम्य आचर्यम् प्रति तस्य ब्रम्हसूत्रभाष्यविषये प्रश्नान् पृष्ट्वा अन्ते तस्य भाष्यमेव सत्यमिति अङ्गीकरोति ।


परन्तु अस्य श्लोकस्य एकः अन्यः विषेषः अपि अस्ति इति मम मति: । प्रथमम् आचार्यम् व्यासम् इति क्रमेण उक्त्वा तदनन्तरम् सूत्रभाष्यकृतौ इति अन्यक्रमे वदितः भवति - - यत: वास्तवे सूत्रकारः व्यासः भाष्यकारः च शङ्करः । अतः श्लोककारस्य शङ्करकेशवयोः अपि एकत्वबुद्धि: इति भवति । ताभ्याम् पुनःपुनः अनेकवारम् वन्दने एव अस्माकम् शीलः न अन्यविशयेषु ।


तदेवाभिप्राय: अधोलिखितयोः ब्रम्हविद्यागुरुपरम्परवन्दन श्लोकयोः अपि प्रदर्शित: -

नारायणम् पद्मभुवम् वसिष्ठम् शक्तिम् च तत्पुत्रपरासरम् च
व्यासम् शुकम् गौड्पदम् महान्तम् गोविन्दयोगिन्द्रम् अताऽस्य शिश्यम् ।
श्रीशङ्कराचार्यम् अताऽस्य पद्म्पादम् च हस्तामलकम् च शिश्यम्
तम् तोटकम् वार्तिककारम् अन्यान् अस्मद् गुरून् सन्ततम् मानतोऽस्मि ॥

सदाशिव स्मारम्भाम् शङ्कराचार्यमध्यमाम् ।
अस्मदाचार्यपर्यन्ताम् वन्दे गुरुपरम्पराम् ॥

No comments:

Post a Comment